क्रियासिद्धिः सत्त्वे भवति

रथस्यैकं चक्रं भुजगयमिता सप्त तुरगाः

निरालंबो मार्गः चरणविकलः सारथिरपि

रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः

क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे. 1

विजेतव्या लङ्का चरण तरणीयो जलनिधिः

विपक्षो पौलत्स्यः रणभुवि सहायाश्च कपयः

तथापि मर्त्यो सः सकलमवधीत राक्षसकुलं

क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे. 2

घटो जन्मस्थानं मृगपरिजनो भूर्जवसनं

वने वासः कन्दाशनमपिच दुःस्थं वपुरिदं

तथाप्येSकोगस्त्यः सकलमपिबत वारिधिजलं

क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे.3

न पाण्डित्यं शास्त्राध्ययनजनितं नो कुलधनं

न वाचो कौशल्यं न च किमपि साहाय्यमपरं

स तु प्राणाचार्यो नत घटितवान संघमतुलं

क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे.4

विनष्टं स्वातन्त्र्यं सुचिरमवलुप्तं जनबलं

समाजैक्यं क्षीणं विकृतिमगमत संस्कृतिरपि

प्रबुद्धं स्वं राष्ट्रं तदपि कृतवान केशव गुरुः

क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे.5